Posts

संस्कृतभाषा ( Sanskrit Essay on Sanskrit Language )

संस्कृतभाषा  ( Sanskrit Essay on Sanskrit Language )  संस्कृतं जगतः अतिप्राचीना समृद्घा शास्त्रीया च भाषा अस्ति। संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति। महर्षिपाणिनिरचिता "अष्‍टाध्‍यायी" जगतः सर्वासां भाषानां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं वर्तते। भारतीयभाषासु बहुलत्वेन संस्कृतशब्दाः उपयुज्यन्ते। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषाः उद्भूताः। तद्वदेव भारत्-युरोपीयः भाषावर्गीयाः नैकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं वा प्रदर्शयन्ति। संस्‍कृतभाषायाः सुरभारती, देववाणी, देवीवाक्‌, गीर्वाणवाणी, देवभाषा, अमरभारती इत्‍यादीनि बहूनि नामानि प्रसिद्धानि सन्‍ति ।  संस्कृते एकस्य धातोः रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येक-लकारे प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः इति त्रयः पुरुषाः सन्ति। अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दंडचिन्हम्‌। न वर्तते अत्र अन्‍यानि विरामचिन्हानि केवलं दंडचिन्हमेव। एतदेव चिन्हम् विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान...

वैशाखी पर्व (Sanskrit Essay on Vaisakhi)

वैशाखी पर्व (Sanskrit Essay on Vaisakhi) वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति । यस्मिन् दिने सूर्यःमेषराशिं प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । पञ्जाबराज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः पञ्जाबराज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।पञ्जाबराज्ये कृषेः विशेषं महत्वं वर्तते । तत्रत्याः कृषकाः कृषिकार्यं निष्ठापूर्वकम्, उत्साहपूर्वकं च कुर्वन्ति । ते कृषकाः कृषेः स्वेषां जीवनं चालयन्ति । पञ्जाबराज्यस्य कृषकाणां यादृशः उत्साहः आभारते तादृशः उत्साहः अन्यत्र कुत्रापि न दृश्यते । अस्मिन् पर्वणि कृषकाः प्रथमं पक्वं सस्यं भगवते अग्नये ददति । तदनन्तरं प्रसादं सर्वे जनाः गृह्णन्ति । प...

भारतस्य राष्ट्रध्वजः ( Sanskrit Essay on India Flag )

भारतस्य राष्ट्रध्वजः ( Sanskrit Essay on India Flag ) भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेणसुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत् ।भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् । राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते । तस्य चक्रस्य चतुर्विंशतिः अराः सन्ति । तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति । महात्मना प्रचारितेन खादि-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः । कोऽपिरेशम-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इ...