संस्कृतभाषा ( Sanskrit Essay on Sanskrit Language )

संस्कृतभाषा ( Sanskrit Essay on Sanskrit Language )

 संस्कृतं जगतः अतिप्राचीना समृद्घा शास्त्रीया च भाषा अस्ति। संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति। महर्षिपाणिनिरचिता "अष्‍टाध्‍यायी" जगतः सर्वासां भाषानां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं वर्तते। भारतीयभाषासु बहुलत्वेन संस्कृतशब्दाः उपयुज्यन्ते। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषाः उद्भूताः। तद्वदेव भारत्-युरोपीयः भाषावर्गीयाः नैकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं वा प्रदर्शयन्ति।

संस्‍कृतभाषायाः सुरभारती, देववाणी, देवीवाक्‌, गीर्वाणवाणी, देवभाषा, अमरभारती इत्‍यादीनि बहूनि नामानि प्रसिद्धानि सन्‍ति ।

 संस्कृते एकस्य धातोः रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येक-लकारे प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः इति त्रयः पुरुषाः सन्ति। अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दंडचिन्हम्‌। न वर्तते अत्र अन्‍यानि विरामचिन्हानि केवलं दंडचिन्हमेव। एतदेव चिन्हम् विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानं च धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥

संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति।

Comments

Most Viewed